॥ श्री गणपत्यथर्वशीर्ष ॥
हरिः ॐ
नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्ताऽसि॥
त्वमेव केवलं धर्ताऽसि ॥
त्वमेव केवलं हर्ताऽसि ॥
त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वं साक्षादात्माऽसि नित्यम् ॥१॥
ऋतं वच्मि ॥
सत्यं वच्मि॥२॥
अव त्वं माम् ॥ अव वक्तारम् ॥
अव श्रोतारम् ॥ अव दातारम् ॥
अव धातारम्॥ अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ॥ अव पुरस्तात् ॥
अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥ ३॥
त्वं वाङ्मयस्त्वं चिन्मयः ॥
त्वमानंदमयस्त्वं ब्रह्ममयः ॥
त्वं सच्चिदानंदाद्वितीयोऽसि ॥
त्वं प्रत्यक्षं ब्रह्मासि ॥
त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥
सर्वं जगदिदं त्वत्तो जायते ॥
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापोऽनलोऽनिलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५॥
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥
त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मूलाधारस्थितोऽसि नित्यम् ॥
त्वं शक्तित्रयात्मकः ॥
त्वां योगिनो ध्यायंति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥
तारेण ऋद्धम् ॥ एतत्तव मनुस्वरूपम् ॥
गकारः पूर्वरूपम् ॥ अकारो मध्यमरूपम् ॥
अनुस्वारश्चान्त्यरूपम् ॥ बिन्दुरुत्तररूपम् ॥
नादः संधानम् ॥ संहितासंधिः ॥
सैषा गणेशविद्या ॥ गणकऋषिः ॥
निचृद्गायत्रीच्छंदः ॥ गणपतिर्देवता ॥
ॐ गं गणपतये नमः ॥ ७॥
एकदंताय विद्महे ।
वक्रतुण्डाय धीमहि ॥
तन्नो दंतिः प्रचोदयात् ॥ ८॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
नमो व्रातपतये ।
नमो गणपतये ।
नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ॥ १०॥